देवी लक्ष्मीः – सम्पदधिदेवता लक्ष्मीः विष्णोः पत्नी । त्रिमूर्तिषु विष्णुः जगतः स्थितिकारकः अर्थात् रक्षकः । जगद्रक्षणाय सम्पद् / ऐश्वर्यम् अपेक्षितम् भवति । उचितमेव यत् ऐश्वर्यदेवता लक्ष्मीः एव अस्य पत्नी अस्तीति। एषा देवी स्वर्णहस्ता जनेभ्यः सम्पदं वर्षति । लक्ष्मीः यत्र तत्र सम्पद् भवति । सा च सम्पद् बहुविधा भवति – धनसम्पत्तिः, बुद्धिसम्पत्तिः, धर्मसम्पत्तिः इत्यादि । किं बहुना, लोके यद्यदपेक्षणीयं तत्सर्वं लक्ष्म्याः अनुग्रहेण एव सिध्यति । आत्मज्ञानार्थिना सर्वेणापि बुद्धिसम्पत् अवश्यं सम्पादनीया । एतस्मात् कारणाद् एव नवरात्रोत्सवे सरस्वतीपूजायाः पूर्वं लक्ष्मीपूजा प्रवर्तते । अद्यत्वे तु लक्ष्मीपूजा केवलम् ऐहिकसम्पदं प्राप्तुं क्रियमाणा दृश्यते । चञ्चलां लक्ष्मीं यः अनुधावति तस्य सा दूरे एव तिष्ठति । न तस्य वशमेति । यस्तु पुरुषः सत्त्वगुणसम्पन्नः तस्य वशे भवति सा । शुद्धेन मनसा यदा पुरुषः अध्यात्मरतिः भवति तदा सः शान्तिम् ऐश्वर्यं सम्पदं च प्राप्नोति । सात्त्विकस्य मनसः द्योतकः क्षीरसागरः । तस्माद् उत्थिता लक्ष्मीः अस्य एव तत्त्वस्य निरूपणम् करोतीव । लक्ष्म्याः प्रसादेन अस्माभिः सर्वविधा सम्पत् प्राप्तुं शक्या । इममेवार्थं विशदयति अयं श्लोकः । लक्ष्म्याः चत्वारो हस्ताः । तयोर्द्वाभ्यां पद्मे धरति सा । पद्मा कमला इत्यपि तस्याः नाम्नी । बिल्वनिलया इत्यपि एषा कीर्त्यते । अस्याः अर्चामूर्तेः पार्श्वयोः क्वचित् गजौ दृश्येते । एषा हिरण्यवर्णा कथ्यते । देवालयेषु एषा पद्मे आसीना भवति । अस्याः चत्वारो हस्ताः देवी एषा चतुर्वर्गपुरुषार्थप्रदायिनी इति सूचयन्ति । लक्ष्मीः अष्टसु रूपेषु पूज्यते । तानि च आदिलक्ष्मीः, गजलक्ष्मीः, धनलक्ष्मीः, धान्यलक्ष्मीः, सन्तानलक्ष्मीः, वीरलक्ष्मीः, व