वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते । यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति । वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः ‘रबी’ इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये ‘रबी’ इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।