Essay on Peacock in Sanskrit
मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव ‘मयूरयष्टिः’ इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य ‘केका’ इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।एषः मयूरः स्कन्दस्य (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति । मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं ‘जातीयसमैक्यं’ सूचयति । तस्मात् मयूरः ‘जातीयविहङ्गः’ इति निर्णीतः । मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते ।
क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान् आसीत् इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति बर्ही इति एतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवन्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः नीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तः मयूरः पक्षिजातिषु एव सुन्दरतमः । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च । तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीय
Read Also:
Sanskrit Essay on Vedvyas
Sanskrit Essay on Parrot
Sanskrit Essay on Aryabhat
Essay on Vedvyas in Sanskrit
Sanskrit Essay On Vasant Ritu