संस्कृत में वेद व्यास पर निबंध

हिन्दुपरम्परायां कश्रन प्रमुखः । महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाग। एतस्य पिता पराशरमुनिः माता च सत्यवती । व्यासस्य शैली अपि वाल्मीकः इव सरला एवं महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम् अस्ति। भगवान् वेदव्यासः महर्षेः पराशरस्य पुत्रः। एषः कैवर्तराजस्य पालितपुत्र्याः सत्यवत्याः गर्भ जन्म प्राप्तवान् । एषः कश्रन अलौकिक शक्तिसम्पन्नः महापुरूषः अपि च महानाकारक पुरूषः आसीत्। एषः अपि च महानाकारक पूरूषः आसीत्। एषः जनानां स्मरणशक्तेः क्षीणां दृष्ट्वा वेदानाम् ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वणवेदः च इति विभजनम् अकरोत् । प्रत्येक संहिताम् अपि प्रत्येक शिष्य बोधितवान् । एकै कस्याः संहितायाः अपि अन्यायाः शाखाः उपशाखाः च अभवन्। एवम् एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तारः आसादितः । विस्तारं व्यासः इति वदन्ति। वेदस्य विस्तार एतेन सम्पादितः इति कारणेन एषः वेदव्यासः इति नाम्ना प्रसिद्धः जातः । एतस्य जन्म कमिश्रित द्वीपे अभवत्। श्यामलवर्णस्य एवं जनाः कृष्णद्वैपायन इत्यति आसीत्। अष्टादशपुराणाति, महाभारतस्य रचनाम् एषः एव अकरोत् । संक्षेपण उपनिषदः तत्वान्। बोधयितुं ब्रह्यसूत्राणां निर्माणम् अकरोत्। तेषां । विषये अन्यान्याः आचार्यः भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्तः । ‘व्यासस्मृतिः’ एतेन रचितः कश्रच्न स्मृतिग्रन्थः एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृतेः, विषये व्यासस्य महत् योगदानम् अस्ति। श्रुति-स्मृति -पुराणोत्तस्य सनातनधर्मस्य कश्रच्न प्रधानः व्याख्यानकारः व्यासः इति उच्यते । हिन्दवः भारतीयसंस्कृतिः च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाग अगर एवं जगति एव एषः महान् श्रेष्ठः पथप्रदर्शकः, शिक्षकः च इति उच्चते।