Sanskrit Essay on River Ganges/Ganga(गङ्गानदी)

Essay on River Ganga in Sanskrit

गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी| भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे यमुना गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।गङ्गायां द्विविधौ शिशुमारौ(मत्स्यविशेषः) स्तः। तौ गङ्गाशिशुमारः इरावतीशिशुमारः च। गङ्गायां केचन विरलाः कुम्भीराः(मकराः) अपि वसन्ति। हैन्दवाः गङ्गादेवीं माता इव पूजयन्ती| गङ्गायाः तीरे अनेके हरिद्वार-काश्यादीनि पवित्राणि तीर्थस्थलानि सन्ति। गङ्गास्नानं सर्वाणि पापानि अपहरति मोक्षमपि ददाति इति जनाः मन्यन्ते। श्रद्धावन्तः हैन्दवाः गङ्गास्नानं कर्तुं यात्रां कुर्वन्ति। तस्याः तीरे अपि तपः कुर्वन्ति |
एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा। भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं वायुः अग्निः इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकाल‌ात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति । भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति ।

Related Content:
Essay on Vedvyas in Sanskrit
Sanskrit Essay on Yoga
Sanskrit Essay on Indus Valley Civilization
Sanskrit Essay on Patanjali
Vidya Slokas

Leave a Comment