Sanskrit Essay on Vedant( वेदान्तः )

Essay in Sanskrit on Vedant

वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम् आधारीकृत्य महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति । वेदान्तमतानुसारं निःश्रेयस् परं प्रयोजनमस्ति । निःश्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्मसामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः ।

यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति । ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।

Read Also:
Sanskrit Essay on Maharishi Bhardwaj
Sanskrit Essay on Mango
Satsangati Sanskrit Essay
Sanskrit Essay on Rigveda
Paropkar Sanskrit Essay

Leave a Comment