परोपकाराय सताम् विभूतयः | Paropkar Essay in Sanskrit

मनसा वाचा कर्मणा च परेषाम् उपकारः ‘परोपकारः’ कथ्यते । अस्मिन् । जगति, परोपकार समम् किमपि श्रेष्ठं पुण्यं न विद्यते । परोपकारस्य महिमा सर्वत्र दृश्यते । सज्जनेषु एवं परोपकारस्य भावना भवति न दुर्जनेषु । अस्मांक देशे अनेके परोपकारिणः पुरुषाः अभवन् । महर्षि दधिचिः परोपकाराय,स्व अस्थीनि दत्तवान् । महाराजः शिविः कपोतस्य रक्षणार्थ, स्वमसम् अददत्) परोपकारिणः दीनेभ्यः दानम्, निर्धनभ्यः धनम् वस्त्र हीनेभ्यः वस्त्रम्, बुभुक्षितेभ्यः अन्नम् दत्त्वा प्रसन्नाः भवन्ति ।।

अचेतनाः अपि पदार्थाः परोपका रताः दृश्यन्ते । वृक्षाः स्वयं तापं सहन्ते परम् आश्रितानाम् सन्तापं । दूरी कुर्वन्ति । नद्यः परोपकाराय , वहन्ति । गावः । परोपकाराय दुग्धं यच्छन्ति । सूर्यचन्द्रमस परोपकाराय एव प्रकाशेते । मेघाः । परोपकाराय एवं वर्षन्ति । ।

परोपकारिणां पुरुषाणां पुण्य प्रभावादेव लोकोऽयमभ्युदयं प्राप्नोति । परोपकारो हि आत्मसन्तोषस्य मूलम् । तेन हि सतां शोभा वर्धते, कीर्ति कौमुदी च प्रसरति । उक्तं च भर्तृहरिणा –

श्रोत्रं श्रुतेनैव न कुण्डलेन।

वानेन पाणिर्न तु कणेन ।

विभाति कायः करुणापराणां

परोपकारैर्न तु चन्दनेन ।

परोपकारिणा सस्विं परोपकाराय भवति । किं बहुना, परोपकाराय एवं सतां विभूतयः भवन्ति । सत्यमेव उक्तम् –

पिवन्ति नः स्वयमेव नाम्भः

, स्वयं न खादन्ति फलानि वृक्षाः ।।

नादन्ति शस्यं खलु वारिवाहा

, परोपकाराय सतां विभूतयः ।।

 

अस्मिन् संसारे आत्मार्थे तु ‘काकोऽपि जीवति चिरमुबलि च भुङ्क्ते’, किन्तु ते एव पुरुषाः धन्याः ये परार्थं कार्यं कुर्वन्ति । शास्त्रेषु परोपकारस्य महत्त्वम् एवं वर्णितम् –

अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।

परोपकारः पुण्याय पापाय परपीडनम्॥