जैनधर्मः (Jainism ) | Sanskrit Essay on Jainism

Sanskrit Essay on Jain Religion (Jainism)

जैनधर्मः भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति । जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति । जैनधर्मः भारतवर्षस्य प्राचीनधर्मः वर्तते । अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् । साम्प्रते काले अपि तीर्थङ्कराणां शासनम् अस्ति । भविष्यत्काले अपि २४ तीर्थङ्कराणां श्रेणी भविष्यति इति उक्तम् अस्ति ।

चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् । तेन असी, मसी, कृषिः च एताः कलाः प्रदत्ताः । स्वरक्षणाय खड्गशस्त्रस्य उपयोगः, लेखनार्थं लेखनी-मष्योः उपयोगः, पोषणाय कृषिसाधनानाम् उपयोगः च करणीयः इति भगवता ऋषभदेवेन उक्तम्।

Read Also:
Deepawali Essay in Sanskrit
Sanskrit Essay on Maharishi Bhardwaj
Paropkar Essay in Sanskrit
Sanskrit Essay on Peacock
Sanskrit Essay on Patanjali

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!