Sanskrit Essay on Banyan Tree ( वटवृक्षः )

Essay on Banyan Tree in Sanskrit

वटवृक्षः कश्चित् महावृक्षः भवति । अस्य न्यग्रोधः इत्यपि नाम अस्ति । एतत् भारतस्य राष्ट्रवृक्षः । आङ्ग्लभाषया इति कथयन्ति । प्राचीनकाले अस्य वृक्षस्य अधः वनिजः (बनिया=हिन्दुवणिजः) वाणिज्यव्यवहारन् कुर्वन्ति स्म । अतः अस्य आङ्ग्लभाषया एतत् नाम आगतम् । अयं बृहत्प्रमाणे वर्धमानः वृक्षेषु अन्यतमः । जगतः अतिबृहद्वटवृक्षः कोल्कोतानगरे अस्ति । अयं वटवृक्षः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः पुराणानां कालात् अपि परमपवित्रः इति परिगण्यमानः अस्ति । अश्वत्थवृक्षः इव अयं वटवृक्षः अपि पूज्यते । तथैव औषधीयसस्यत्वेन अपि परिगण्यते अयम् । वटवृक्षः अत्यन्तं विशालः वृक्षः । अस्य वृक्षस्य त्वक्, पर्णं, मूलं, फलं, रसः चापि औषधत्वेन उपयुज्यन्ते । अस्य त्वचि “ट्यानिन्” नामकः रासायनिकः पदार्थः अस्ति ।

अस्य वटवृक्षस्य “बहुपादः” इत्यपि नाम अस्ति । अयं वटवृक्षः आङ्ग्लभाषया“ब्यानियन् ट्री” इति उच्यते । सस्यकुले अयं कुले अन्तर्भवति । अयं हिन्दीभाषया“बड्” इति, तेलुगुभाषया“मरिचेट्टु” इति, तमिळ्भाषया “आलमरम्” इति, मलयाळभाषया“वटम्” इति, कन्नडभाषया “आलद मर” इति च उच्यते । विशालभ्यः अस्य शाख्याभ्यः मूलानि निस्सृत्य भूमौ सुरूढाः भूत्वा स्वयं काण्डत्वम् आप्नुवन्ति । एवमेव प्रहलप्रदेशपर्यन्तं व्याप्नोति । अस्य पत्राणि घणानि स्फुरणानि च भवन्ति । अस्मिन् महावृक्षे फालानि लघूनि पक्षिप्रियाणि सम्भवन्ति किन्तु पुष्पाणि न भवन्ति इति विशेषः । अयं श्लोकः वृक्षस्य गरिमां सूचयति । अयं वटवृक्षः अत्यन्तं विशालः वृक्षः । तस्मात् सः वृक्षगणे अन्तर्भवति । औषधीयानां गुणानां कारणात् औषधीयानां सस्यानां गणे अपि अन्तर्भवति । अस्य वटवृक्षस्य रसः कटुः तथा च कषायः । अयं रूक्षः, शीतगुणयुक्तः च । १. अस्य वटवृक्षस्य रसः कण्ठव

Read Also:
Sanskrit Essay on Parrot
Sanskrit Essay on Elephant
Sanskrit Essay on Vedant
Sanskrit Essay on Flower
Sadachar Sanskrit Essay

Leave a Comment