Sanskrit Essay on Elephant ( गजः )

Essay in Sanskrit on Elephant: मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः । कर्णौ शूर्पे इव अति विशालौ । नेत्रे तु ल्घ्वाकारकौ । तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति | करी शाकाहारी । गजस्य शरीरं विशालं, धूसरवर्णञ्च । सहजसाधुरयं गम्भीरस्वभावः । गमनं तु प्रायः मन्दं भवति । गजस्य रवः घीङ्कारः इत्युच्यते । सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् । यः हस्तिनं चालयति सः हस्तिपकः इति कथ्यते । राजानः गजान् आरुह्य विहरन्ति स्म । मृगयार्थम् अपि गच्छन्ति स्म । युद्धेषु गजसेनायाः प्राधान्यम् आसीत् । गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।

Read Also:
Sanskrit Essay On Durga Puja
Sanskrit Essay on Indus Valley Civilization
Sanskrit Essay on Banabhatta
Sanskrit Essay on Rigveda

 

Leave a Comment