Essay on Parrot in Sanskrit
कश्चन पक्षी अस्ति । सामान्यतः उष्णवलयेषु उपलभ्यते । शुकः सिट्टसिफोर्म्स् वर्गे अन्तर्भूतः एकः पक्षी | शुकेषु सामान्यतया ३५० विधाः जातयः सन्ति । एते सामान्यतया उष्णवलयप्रदेशे भवन्ति । शुकानां कुटुम्बस्य भागद्वयं कृतम् अस्ति । सिट्टिसीडे (नैजशुकः) तथा ककाटुय्डे इति कुटुम्बद्वयम् अस्ति । समग्रे उष्णवलये तथा दक्षिण- समशीतोष्णवलये अपि शुकाः दृश्यन्ते । अधिकप्रभेदाः दक्षिणामेरिकाभूखण्डे ,आस्ट्रेलियाभूखण्डे एशियाभूखण्डे च सन्ति ।शुकाः शक्तियुक्तवक्रचञ्चूमन्तः भवन्ति ।, साक्षात् स्तिथिः, बलयुतौ पादौ च भवतः । अधिकतया शुकाः हरिताः भवन्ति । कतिचन वंशीयाः इतरैः प्रकाशमानवर्णैः युक्ताःसन्ति चेत् अन्ये केचन मिश्रवर्णीयाः भवन्ति ।शिरसः उपरि पिच्छानां किरीटं भवति । अधिकतया शुकाः आजीवनम् एकेन एव उत्सङ्गिना सह जीवन्ति।
अति लघु शुकः३.२अङ्गुलं यावत् दीर्घः,१० ग्रामभारयुक्तः च भवति । बृहत् शुकः३.३पादमितःदीर्घः तथा चत्वारि किलोग्रां यावत् भारयुक्तः भवति । एवं पक्षिसङ्कुलेषु देहप्रमाणे अत्यधिकं वैविध्यं शुकेषु द्रष्टुं शक्यते ।कानां आहारः नाम बीजानि, फलानि, मुकुलानि अन्यसस्यजन्यवस्तूनि भवन्ति । सामान्यतया बीजानि शुकानां प्रमुखः आहारः । बीजं स्वस्य चञ्च्वा दष्ट्वा अन्तः विद्यमानं सारं शुकाः बहु सुलभतया निष्कासयितुं शक्नुवन्ति । बृहत् गात्रस्य बीजं चेत् स्वस्य पादस्य अधोभागे दृढं संस्थाप्य भञ्जयति । दक्षिण-अमेरिकाभूखण्डे तथा आस्ट्रेलिया-एशियाखण्डयोः दृश्यमाणानां शुकानां वैविध्यकारणतः एते मूलतः गोण्ड्वानावंशजाः इति ज्ञायन्ते । ७ कोटिवर्षपूर्वतनः यः शुकस्य अस्थिपञ्जरस्य अवशेषः प्राप्तः अस्ति सः एव अत्र प्रमाणम् । कोक्याटु-जातीयाः शुकाः सुलभतया अभिज्ञातुं शक्याः । शुकः जगतः उष्णवलयप्रदेशे तथा दक्षिण
Read Also:
Deshbhakti Sanskrit Essay
Sanskrit Essay on Panini
Sanskrit Essay On Durga Puja
Sanskrit Essay on Earth
Sanskrit Esssay on Neem Plant