Sanskrit Essay on Panini ( पाणिनिः )

Essay in Sanskrit on Panini

पाणिनिः संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।पाणिनीया शिक्षाग्रन्थे त्रयः श्लोकाः पाणिनेः नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानां प्रातः स्मरणीयः मुनिः । न केवलं वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानाम् ऐन्द्-चान्द्र-आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य ‘नवं, समग्रं, विश्वजनीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशं परमेश्वरं तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् ।

तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् ।पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य ‘शालातुरीयः’ इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । [अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । ‘पणिनः’ इति तस्य पितुः नाम । अतः तस्य नाम ‘पाणिनिः’ अभवत् । पञ्चतन्त्रानुसारेण पाणिनेः मृत्युः सिंहकारणात् अभवत् – ‘सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।’ परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति । मृत्युः इति स्थाने मृत्युः इति भवितव्यम्।

Read Also:
Sanskrit Essay on Jainism
Sanskrit Essay on Aryabhat
Essay on Terrorism in Sanskrit
Essay on Unity in Sanskrit
Sanskrit Essay On Pustkaly

Leave a Comment