Essay on Neem Plant/Tree in Sanskrit
अयं निम्बवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं बहूपयोगी वृक्षः इत्येव प्रसिद्धः अस्ति । युगादिपर्वणः अवसरे निम्बगुडस्य सेवनं परम्परानुगुणं प्रवर्तते भारते । अयं वृक्षः समतलभूमौ वर्धते । यत्र अधिका वृष्टिः जायते तत्र अयं वृक्षः न वर्धते । कासाराणां, तडागानां, सरोवराणां वा तीरे समृद्धरूपेण वर्धते अयं निम्बवृक्षः । अस्य वृक्षस्य सर्वाङ्गानि अपि औषधत्वेन उपयुज्यन्ते । अस्य पर्णाणि संयुक्तगात्राणि । अयं वृक्षः सदा हरिद्वर्णीयः । अस्य पर्णानाम् अञ्चलः (अन्तिमभागः) क्रकचः इव तीक्ष्णः भवति । अस्य निम्बवृक्षस्य त्वक् कपिलवर्णीयं भवति ।
पर्णानां कक्षे पुष्पाणां गुच्छं भवति । पुष्पाणि मधुगन्धयुक्तानि, श्वेतवर्णीयानि च भवन्ति । मार्चमासतः मेमासाभ्यन्तरे पुष्पाणि जायन्ते । सेप्टेम्बर्-तः नवेम्बर्-मासाभ्यन्तरे फलानि वर्धन्ते । फलानि मन्दपीतवर्णीयानि । अस्मिन् एव अवधौ बीजानां सङ्ग्रहणम् अपि प्रचलति ।अयं निम्बवृक्षः आङ्ग्लभाषया इति उच्यते । हिन्दीभाषया “नीम” इति, बङ्गभाषया “निम्” इति, तेलुगुभाषया “वेपचेट्टु” इति, तमिळ्भाषाया “वेम्बु” इति, मलयाळभाषया “वेप्पु” इति, कन्नडभाषया “बेवु” अथवा “कहिबेवु” इति उच्यते ।
Read Also:
Sanskrit Essay on Aryabhat
Sanskrit Essay on Ved
Sanskrit essay on Maharashtra
Sanskrit Essay on Earth
Sanskrit Essay on Mango