Sanskrit Essay on India | भारतम् (My Country)

भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे आर्यावर्ते स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत‌: देश: एष: । एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति ।

क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति । भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इत |

Related Essays: Essay on Elephant/Essay on Bird/Essay on Flower/Essay on Water

Leave a Comment