बाणभट्टः (Banabhatta ) | Sanskrit Essay on Banabhatta

Jump to Section

Essay on Banabhatta in Sanskrit

Read Also: Essay on Maharishi valmiki/ Essay on Lord Mahavir
महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति । कविराजः इति नामा गद्यकविरेकः वदति यत्-सुबन्धुर्बाणभट्टश्चकविराज इति त्रयः इति श्लेषार्थचमत्कारे वयं त्रय एव गद्यकवयः इति साधयति ।शोणानद्याः पश्चिमे तीरे स्थितः प्रीतिकूटम् नाम अग्रहारः (ब्राह्मणानां निवासस्थानम्) बाणस्य जन्मभूमिः आसीत् । वात्स्यायनवंशजः “चिन्तामणिः” बाणस्य पिता । राजदेवी बाणस्य माता । बाणस्य भट्ट इति उपनाम आसीत् ।शैशवे एव बाणस्य मातृवियोगः अभवत् । ततः पिता एव बालस्य रक्षणपोषणभारम् ऊढवान् । समुचिते वयसि विधिवत् उपनयनादिसंस्कारान् विधाय शिक्षणं च प्रादात् । बाणस्य चतुर्दशे वयसि पितापि दिवंगतः । शिक्षको रक्षकश्च पिता यदा मृतः तदा खिन्नः बाणः स्वस्य यौवनारम्भे किंकर्तव्यतामूढः स्वगामं गृहं प्रियान् मित्राणि च त्यक्त्वा एकाकी सन् नाना देशान् बभ्राम । एवं भ्रमता बाणेन शूद्रस्त्रीसञ्जातौ चन्द्रसेनमातृषेणौ, भाषाकविः ईशानः, वारबाणवीसबाणनामानौ विद्वांसौ, वर्णकविः वेणीभारतः जाङ्गलिकः(विषवैद्यः) मयूरः, भिषक्पुत्रः मन्दारकः इत्यादयः बाणस्य नूतनाः सुहृदः समभवन् । एवं च बहुकालं यावत् देशाटनं कृत्वा पुनः स्वग्रामं प्रीतिकूटम् प्रत्याजगाम । इष्टगोष्ठीषु कालयापनं कुर्वन् आसीत् । बाणस्य स्वग्रामागमनं पाण्डित्यं च कर्णाकर्णिकया श्रुत्वा श्रीहर्षसार्वभौमस्य मातुलः चित्रभानोः मित्रं च कृष्णः श्रीहर्षं सम्प्रार्थ्य बाणम् हर्षस्य आस्थानपण्डितमण्डल्यां प्रवेशयामास । ततः किञ्चित्कालानन्तरं बाणः हर्षस्य आप्तमित्रम् अभवत् । बाणः स्वस्य आश्रयदातुः हर्षस्य जीवनचरितम् हर्षचरितम् नामकं ग्रन्थं गद्यरूपेण न्यबध्नात् ।

Share this post

Share on facebook
Share on google
Share on twitter
Share on linkedin

Related Posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top