Essay on Lord Mahavir In Sanskrit

Essay on Lord Mahavir In Sanskrit

Essay on Lord Mahavir In Sanskrit

महावीरः जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अन्तिमः तीर्थङ्करः अस्ति । भगवतः महावीरस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सिंहः इत्यस्ति । कौमारावस्थायां महावीरस्य शरीरस्य औन्नत्यं सप्त हस्तमात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “मातङ्ग” इत्याख्यः यक्षः, “सिद्धयिका” इत्याख्या यक्षिणी च आसीत् । भगवान् महावीरः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।देवायुष्यं समाप्य भगवतः जीवः भरतक्षेत्रस्य क्षत्रियकुण्ड-नामके ग्रामे अवातरत् । तस्मिन् ग्रामे चैत्र-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ उत्तराषाढा-नक्षत्रे मध्यरात्रौ भगवतः महावीरस्य जन्म अभवत् । महावीरस्य पिता सिद्धार्थः, माता च त्रिशला आसीत् ।भगवान् महावीरः सप्तविंशतिभवानां यात्रां कृतवान् आसीत् । मनुष्यः स्वकर्मणा एव स्वर्गं नरकं वा गच्छति । अनेन प्रकारेण महावीरस्य आत्मना अपि स्वकर्मानुसारं सुखं, दुःखं च भुक्तम् । महावीरस्य आत्मना बहूनां भवानां यात्रा कृता अस्ति । किन्तु यावत् महावीरस्य आत्मना सम्यक्त्वं प्राप्तं, तावदेव भवानां गणना कृता अस्ति । अतः महावीरस्य षड्विंशतिभवानां विवरणम् अधः लिखितम् अस्ति | बालकस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः महावीरस्य जन्मनः एकादश दिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव । समयान्तरे वर्धमानः तारुण्यं प्रापत् । राज्ञा सिद्धार्थेन वर्धमानस्य विवाहस्य विचारः कृतः । सिद्धार्थः वर्धमानस्य मित्रेभ्यः वर्धमानस्य विवाहस्य दाय|

Read Also:
Essay on Kalidas
Essay on Kalidas
Essay on Greediness
Essay on Mahabharata
Essay on Mahatma Gandhi
Essay on Lord Mahavir

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!