लोभः पापस्य कारणम् | Lobh Essay in Sanskrit

न्यायेन अन्यायेन धनस्य एकत्रीकरण, जीवन निर्वाहार्थम् अथवा उपयोगार्थम् उपभोगार्थञ्च व्यये अरुचिः, एकं पणकम् रक्षितुम् स्वजीवनमपि दातुम् उद्यतो नरः ‘लोभी’ इति कथ्यते हिन्द्याम् । लोभेन आकृष्टः नरः सदैव दु:खम् प्राप्नोति । लोभेन वशीभूत: नरः न ख़ादयितुम् शक्नोति, न सुन्दराणि वस्त्राणि धारयितुम् शक्नोति, न किंचिदपि शुभकार्य कर्तुं शक्नोति । कालक्रमानुसारेण आगतानि कष्टानि अपि मौनीभूय सहित्वा अजितस्य धनस्य प्राणपणेन-रक्षाम् करोति । तस्य जीवने का कथा मनोरंजनस्य, का कथा ऐहिक सखस्य। लोभाविष्टः नरः येन केन प्रकारेण स्व कोषस्य संवर्धनाय सततम् । दुष्कर्मेषु पापकर्मेषु वा संलग्नः जीवनम् यापयति । न जानाति सः, यत् –

दानं, भोगो, नाशः, तिस्रः गतयः भवन्ति वित्तस्य ।।

लोभोभिभूतः न दरिद्रेभ्यः धनम् ददाति नापि स्वयम् उपभोक्तुम् समर्थः भवति अतः धनस्य तृतीयाम् गतिम् एवं प्राप्नोति ।

लोभाविष्टस्य नरस्य पाप कार्येषु स्वयमेव प्रवृत्तिः उद्भूता भवति । कदाचित् सः परधनम् चोरयति, कदाचित् प्रवंचयति, कदाचित् स्वकीयेन मिथ्या भाषणेन सत्पुरुषान् पथ-भ्रष्टं करोति । परन्तु कदापि तस्य सन्तुष्टिः न जायते । पापकर्मणि निमग्नः सः गर्वातिशयम् अनुभवति । अतएव कथ्यते विद्वदभि:

“लोभात् प्रभवति क्रोधः

लोभात् कामः प्रजायते ।

लोभात् मोहश्च नाशश्व

लोभः पापस्य करणम्।”

पंचतन्त्रेऽपि विष्णुशर्मणा उक्तम् –

“अतिलोभाभिभूतस्य चक्रम् अमति मस्तके”

लोभाभिभूतस्य नरस्य मस्तके चक्रम् भ्रमति अर्थात् जीवनपर्यन्तम् सः कष्टम् एव अनुभवति । अन्ते, कष्टमयं जीवनम् यापयित्वा प्राणपणेन अर्जितम्। स्वकीयम् धनम् परेषाम् कृते विहाय यमलोकं प्रयाति । अतएव उक्तम् –

“अतिलोभो न कर्तव्यः”