Sanskrit essay on Nepal | नेपालदेशः (Nepal )

Sanskrit Essay on Nepal

भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः । हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः ।

प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः ‘टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् । इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर् पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति ।

Essay – 2

नेपाल एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति । हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (टिबेट) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४१७०० च.कि.मी । जनसङ्ख्या २.७ कोटिः । राष्ट्रस्य राजधानी काष्टमण्डपः (काठमान्डु/काठमाडा) । क्रि.पू ६, क्रि.पू ५ शतके च एषः प्रदेशः शाक्यशासने आसीत् । शाक्य राजकुमारेषु एकः सिध्दार्थः गौतमः प्रापञ्चिकव्यामोहं त्यक्त्वा दिव्यं ज्ञानं प्राप्य अग्रे बुध्दः इति विख्यातः । क्रि.पू २५० समये एषः प्रदेशः उत्तरभारतस्य मौर्यसाम्राज्यस्य अङ्गमासीत् । अनन्तरं गुप्तराजाः, अनन्तरं लिच्छविराजाः अनन्तरं चालुकयाः एतस्य प्रदेशस्य उपरि अधिकारं स्थापितवन्तः । अनन्तरं एषः प्रदेशः विविधरीत्य़ा विभक्तः लघुराजैः पालितश्च । १७६५ तमे वर्षे पृथ्वीनारायण शाह इति कश्र्चन गाेर्खाराजः नेपालस्य एकीकरणं कृतवान् । भारतं यदा ब्रिटिषाधीनं आसीत् तदा नेपालस्य स्वायत्ताधिकारः आसीत्। आङ्ग्लैः सह एकस्मिन् युध्दे पराजितः चेदपि सन्धिं कृत्वा स्वायत्तताम् अरक्षत् । एतदनुसारं नेपालः स्वप्रदेशम् उत्तरखण्डं, हिमाचलप्रदेशं, सिक्किम भागं च अाङग्लेभ्यः अयच्छत् । ततः आरभ्य राजशासनमेव नेपाले आसीत् । एषु दिनेषु प्रजासत्तानिमित्तम् आन्दोलनं जातम् । बहुपक्षीया सांसदीया व्यवस्था आगता, राज्ञः अधिकारः न्यूनीकृतः । १९९१ तमे वर्षे प्रथमवारं बहुपक्षाणाम् मध्ये मुक्तनिर्वाचनं जातम् । नेपालदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति ।

Read Also:
Lakshmi Mantra
Durga Saptashloki
Sanskrit Essay on Bird
Surya Namaskara Mantra
Vyayam Sanskrit Essay

Leave a Comment