समयस्य सदुपयोगः | Essay on Time in Sanskrit

यत् कार्यं यस्मिन् समये करणीयम् भवेत् तत्कार्यं तस्मिन्नेव समये कुर्यात्अयमेव समयस्य सदुपयोगः अस्ति। मानव जीवने एकैकम् क्षणम् अमूल्यम् वर्तते । यत् विनष्टः समय: केनापि उपायेन पुनः न आयाति । अतः बुद्धिमन्त: मनुष्याः सदैव समयस्य सदुपयोगं कुर्वन्ति मूर्खाश्च तस्य दुरुपयोगे संलग्नाः भवन्ति । उक्तम् –

काव्य शास्त्र विनोदेन कालो गच्छति धीमताम् ।

व्यसनेन च मूर्खाणाम् निद्रया कलहेन वा।

ये मनुष्याः आलस्येन निरर्थक समयं यापयन्ति, यथोचिते समये कार्य न सम्पादयन्ति, छूते, कलहे, भ्रमणे, नृत्यदर्शन, पिशुनतायां च समयं यापयन्ति ते कदापि स्वकार्येषु सफलतां न लभन्ते । येन ते कदापि सुखेन नैव तिष्ठन्ति यतः कथितम्

लम्बमानस्य कार्यस्य कालः पिबति तद्सम् ।

पश्यत, ये छात्राः समयस्य उपयोगं कृत्वा अहर्निशं पठन्ति ते प्रथम श्रेणीम प्रामुवन्ति, ये इतस्ततः परिश्रमन, क्रीडन् समयं यापयन्ति ते तृतीय श्रेणीमपि न प्राप्नुवन्ति । यथासमयं कृषक: मेहता परिश्रमेण क्षेत्राणि कर्षित्वा बीजानि वपन्ति. जलेन सिञ्चन्ति, श्रमम् कठिनम् श्रमम् कुर्वन्ति । तेषाम् श्रमेण निरीक्षणेन च कृषौ प्रभूतम् अन्नम् उत्पद्यते । तेन ते सुखं प्राप्नुवन्ति । ये च यथासमयं न क्षेत्राणि कर्षन्ति, न वपन्ति ते दरिद्राः दुःखिनश्च भवन्ति । सत्यमेव उक्तम् –

प्रथमे नार्जिता विद्या, द्वितायेनार्जितं धनम्।

तृतीये नार्जितं पुण्यं, चतुर्थे किं करिष्यति ।

अतः अस्माकमपि एतत् कर्तव्यं यत् वयं समय-नाशकरान् दोषान् आलस्यं, निद्रां दीर्घसूत्रतां च परिहरामः ।।

अतः स्व कल्याणाय समयस्य महद् मूल्यं ज्ञात्वा आलस्यं त्यक्त्वा, कर्मशीलो भूत्वा तस्य सदुपयोगं कुर्याम । उक्तम् च :

गच्छन् पिपीलिको याति योजनानाम् शतान्यपि ।

अगच्छन् वैनतेयोऽपि पदमेकम् न गच्छति ॥