सत्यमेव जयते | Satyamev Jayate Essay in Sanskrit

सत्यमेव जयते | Satyamev Jayate Essay in Sanskrit

सते (कल्याणा) हितं सत्यम्। संसारे यथा दृष्टं, श्रुतं, कथितं, अनुभूतम्, चिन्तितं च तथैव निव्र्याजरूपेण कथनं ‘सत्यम्’ इति अभिधीयते । सत्यं समों नास्ति कश्चन धर्मः । सभाजस्य स्थितिः सत्येनैव वर्तते । सर्वेषु गुणेषु सत्यमेव श्रेष्ठम् गुणम् अस्ति। सत्ये हि परमेश्वरस्य वासोऽस्ति ।

सत्यभाषाणेन मानवस्य मनः पवित्रं भवति । यो जनः सत्यं गृह्णाति सः जीवने सर्वेषु कार्येषु सफलतां लभते । अस्माकं शास्त्रेषु अपि सत्यस्य महिमा वर्णिता अस्ति । महाभारत ग्रन्थे तु महर्षिणा व्यासेन उक्तम्–

नास्ति सत्यात् परोधर्मः नानृतात् पातर्क परम्।

स्थिति सत्ये धर्मस्य तस्मात् सत्यं न लोपयेत् ।।

मानव सत्येन जगति महद् यशः प्राप्नोति अद्यापि सत्यवादिनः हरिश्चन्द्रस्य अशः गीयते । धर्मराज युधिष्ठिरः सत्यकारणात् एव स्वर्गस्य अधिकारी जातः ।। सत्यप्रतिशः भीमः, अपि सत्यकारणात् आजीवनं विवाहं न अकरोत् । अतः अद्यापि सर्वे जनाः तं सादरं स्मरन्ति । मनुस्मृतिकारेण श्री मनुना अपि धर्मस्य लक्षणेषु सत्यस्य गणना इत्थं कृता|

पतिः मा दमोऽस्तेयं शौचमिन्द्रिय निग्रहः ।

चीः विणा सत्यमोधो दशकं धर्मलक्षणम् ॥

सत्यस्य भाषणेन मनुष्यः निर्भीको भवति । यः कश्चित् सत्य भाषणं करोति तस्य जीवनम् सफल भवति । ये सत्यम् परित्यजन्ति, असत्यंच भाषन्ते ते पाप कुर्वन्ति । सत्य भाषर्ण वस्तुतः सर्वोत्तमम् तपः वर्तते । अतएव उक्तम्:

अश्वमेघ सहस्त्रं च सत्यं च तुलया धृतम्।

अश्वमेध सहस्त्राद् हि सत्यमेव विशिष्यते ।।

भारतस्य राज चिह्ऽपि “सत्यमेव जयते” इति आदरेण उल्लिखितम् अस्ति ।

Also Read:
Essay on Vasant Ritu
Essay on Vasant Ritu
Essay on Vedvyas
Essay on Vidya
Essay on Vyayam
Essay on Women Education

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!