उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः (उद्योगः) | Essay on Udyog in Sanskrit

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः (उद्योगः) | Essay on Udyog in Sanskrit

आलस्यस्य त्याग; क्रियासु च प्रवृत्तिः एव ‘उद्योग’ ‘पुरुषार्थः’ वा कथ्यते । अस्मिन् संसारे सर्वेजनाः सुखं इच्छन्ति । सखं च परिश्रमेण विना न लभ्यते । उद्योगेनैव जनाः स्वकार्येषु सफलतां लभन्ते । उद्योगः मानवस्य सर्वविधं मनोरथ पूरयति । अतएव उच्यते

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।

पुरुषार्थ बिना कस्मिन्नपि कर्मणि सफलता न भवति । सिंहस्य अपि मुले मृगाः स्वयमेव न प्रविशन्ति–

उद्यमेन एव सिध्यन्ति कार्याणि न मनोरथैः ।

नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।

उद्योगेन असाध्यम् अपि कार्य सिद्ध्यति । केचन भाग्यवादिनः उद्योगस्य उपेक्षा कृत्वा भाग्योपरि निर्भराः भवन्ति । येन ते न सुखं लभन्ते न च संसारे कीर्ति लभन्ते ।।

सत्यमेव उक्तम् –

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी

दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या,

यलेकृते यदि न सिध्यति कोऽत्र दोषः ।।

उद्योगे कृते अपि यदि कार्य न सिध्यति तत्र मानवस्य कि दोषः ? यत मानवाधिकारः कर्मणि एव अस्ति न कर्म-फल-प्राप्ती। गीतायां भगवता कृष्णेन उपदिष्टम् –

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।

उद्यमेन एवं अज्ञाः ज्ञान सम्पन्नाः, दु:खिनः च सुखिनः, अनिपुणाः निपुणाः निर्बलाः सबलाः भवन्ति । उद्योगं बिना तिलभ्यः तैलम् अपि प्राप्तुं न शक्यते एजें उद्योगेनैव राष्ट्रं समृद्धं भवति । अतः –

अस्माभिः सर्वदा यथाशक्ति उद्योग: करणीयः ।।

Also Read:
Essay on My Village
Essay on New Year
Essay on Deshbhakti
Essay on Paropkar
Essay on Plantation
Essay on Vidya

Leave a Comment