Essay in Sanskrit on Patanjali
भगवान् पतञ्जलिःयोगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।विभिन्नेषु प्राच्यग्रन्थेषु पतञ्जलेः गोर्नदीयः, गोणिकापुत्रः, नागनाथः, अहिपतिः, फणिराट्, शेषराजः, चूर्णिकारः तथा च पदकारः इत्यादीनि नामानि प्रसिद्धिं भजन्ते ।
एभिर्नामभिः इदं स्पष्टं प्रतीयते यत् पतञ्जलिः शेषनागस्य अवतारः आसीदिति ।एकदा कश्चित् मुनिः कस्मिंश्चित् तडागे स्नानरतः आसीत् । स्नानसमये कश्चित् क्षुद्रः सर्पः तस्य अञ्जलौ अपतत् । किञ्चिद् भीतः मुनिवरः अपृच्छत् “कोડर्भवान् ?” इति । सर्पः उदतरत् – “सपोડहम्” । ततः श्रुत्वा मुनिवरः पुनः अपृच्छत् “रेफःक्वगतः?” इति । सर्पः उक्तवान् – “त्वया अपहृतः” इति । मुनिवरः स्वत्रुटिं ज्ञात्वा लज्जितः अभवत् । सः ज्ञातवान् यत् अवश्यम् अयं कश्चन महापुरुषः विद्वान् च वर्तते । पतञ्जलेः जीवन-वृत्तान्तविषये अन्याः अपि काश्चन किंवदन्त्यः सन्ति ।विशालकाये महाभाष्येऽपि भगवतः पतञ्जलेः इतिवृत्तम् ईषद उपलभ्यते । अतः पतञ्जलेः देशविषये “इदम्-इत्थम्” इत्येवं वक्तुं न शक्यते । तथापि महाभाष्ये “विभाषा साकाङ्क्षा” इति सूत्रव्याख्यावसरे “अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः” इत्युदाहरणबलेन इ
Read Also:
Sanskrit Essay On Pustkaly
Sanskrit Essay on Elephant
Sanskrit essay on Nepal
Sanskrit Essay on Delhi
Satsangati Sanskrit Essay