संस्कृतभाषायाः महत्त्वम् | Importance of Sanskrit Language Essay in Sanskrit

परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति । इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते । संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते ।।

अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति । भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति । धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति । सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति ।

एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते । एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम् । एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। । | कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते । आंग्लभाषायां लिख्यते ‘बुट’ (But) पठ्यते च ‘बट’ लिख्यते पुट (Put) पुनः बटवत् ‘पट’ इति न पठ्यते । एवमेव अनेकानि भ्रष्ट्रभाषायाः उदाहरणानि सन्ति । संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते ।

संस्कृत भाषा:न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च । इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति। ये कथयन्ति यत्

कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य । संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति । सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते । संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्: –

“भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः”

अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता ? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः । यतो हि –
कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति”