Essay on Mother in Sanskrit
अस्मिन् संसारे माता एव परम दैवतमस्ति। मातु: स्थान गृहणा तु कोऽपि न समर्थः। सर्वोत्कृष्ट स्थानं मातुरेव। सा तु स्वर्गादपि गरीयसी वर्तते। मातरधिक किमपि पूज्यं नास्ति। वेदेषु पुराणग्रंथेषु अपि मातुः महात्म्य वर्णितम्। पितुः आचार्यादपि माता श्रेष्ठा अस्ति। अत: सर्वप्रथमो अयमुपदेशः ‘मातृदेवो भव’ इति। पितदेवो भव, आचार्य देवो भव इत्यादिकाः उपदेशाः पश्चादागच्छन्ति।
सन्ततिपालने माता किं किं न करोति। सा अनेकानि कष्टानि सहते। शैशवे पुत्रस्य कारणे रात्रौ अपि जागरणं करोति। स्वयं दु:खं सहते, किन्तु पुत्राय सर्वं सुखं यच्छति। माता अतीव पुत्रवत्सला अस्ति। सा एव बालकस्य प्रथम: गुरु: अपि भवति। विद्यालयगमनात् प्रागेव सा बालकं स्नेहेन शिक्षयति। महाभारते महर्षिणा व्यासेनापि उक्तं, ‘नास्ति मातृसमो गुरुः।‘
स्नेहपरायणा, साधुस्वभावा माता बहूनापि मूल्येन लब्धुं न शक्यते। ‘दीवार’ नाम हिन्दी चित्रपटे अपि मातु: महत्त्वं दर्शितम्। तत्र अयं संवाद: लोकप्रियः अभवत, मम् समीपे धनमस्ति, वाहनमस्ति, गृहमस्ति, त्वत् समीपे किमस्ति? तदा नायक: वदति, ‘मम समीपे माता अस्ति।‘
एवं मातुः महत्त्वं सर्वेः स्वीकृतम्। सुप्रसिद्ध मातृभक्तं श्रवणकुमारं को न जानाति। स्वमातृभक्त्या सः अमरः जातः।
भगवतः शंकराचार्यस्य मातृभक्तिः सर्वविदिता एव। अस्य मातभक्ति, अलौकिकी आसीत्। आधुनिके काले अपि अनेके मातृभक्ताः सन्ति।
एतत् कथितं यत् पुत्र: कुपुत्रः भवति, परन्तु माता कदापि कुमाता न भवति। यथा- ‘कुपुत्रो जायते क्वचिदपि कुमाता न भवति’ इति।
मातुः माहात्म्यं सर्वाधिकं वर्तते। सा परमकल्याणी अस्ति। प्रभुरामचन्द्रेणापि कथितं,’ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।‘ अतः एतद् अस्माकं परम् कर्तव्यम् यत् अस्माभिः मातृभक्तिः अवश्यमेव विधेया।
Also Read:
Essay on Vasant Ritu
Essay on Vasant Ritu
Essay on Vedvyas
Essay on Vidya
Essay on Vyayam
Essay on Women Education