विद्या ददाति विनयम् | Vidya Essay in Sanskrit

ज्ञानार्थकाद ‘विद्’ धातोः विद्याः शब्दः सम्पद्यते । कस्यापि वस्तुनः विषयस्य वा यथार्थतः ज्ञानं ‘विद्या’ इति उच्यते । विद्या श्रेष्ठं गुप्तं च धनं वर्तते । मनुष्याणां रूपं यौवनं च नश्यति परं इदं धनं गुप्तरूपेण संदामनुष्यस्य समीपम् एव वसति । विद्या धनं न चौरा: चोरचितुं शक्नुवन्ति, धनानि व्यये कृते श्रीयन्ते पर इदं धर्न तु व्ययेन वृद्धि प्राप्नोति । विद्या धनं सर्वश्रेष्ठं धनमुच्यते । उक्तं च –

न चौरहार्यं न च राजहार्यं न तु भाज्यं न च भारकारि । ।

व्यये कृते वर्धत एवं नित्यं विद्याधनं सर्वधन प्रधानम् ।। |

संसारे ते एव मनुष्याः उनति कुर्वन्ति ये बाल्ये अनेक विधं कष्टमनुभूय विद्याम् अभ्यस्यन्ति। विद्यैव वास्तविकं सौन्दर्य वर्तते । विदेश विद्या बन्धुवत् सहायिका भवति । विद्वज्जनानां शोभां विस्तारयति । विद्या एवं पुरुषस्य सर्वाणि कार्याणि साधयति –

मातेव उवाति पितेव हिते नियुक्ते कान्तेव चाभिरमयत्यपनीय खेदम् ।।

लक्ष्मी तनोति वितनोति च दिक्षु कीर्तिम्, किं किं न साधयति कल्पलतेय विद्या।।

मनुष्यानां जीवने विद्या परमोपयोगिनी भवति । राजा दण्डशशिधारणात स्वदेशे बलात् पूज्यते परं विद्वान तु सर्वत्र एवं श्रद्धया पूज्यते । विद्वांसः पुरुषाः यत्र गच्छन्ति तत्रैव तेषां सत्कारः भवति । सत्यमेव उक्तं-

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते। ।

विद्या एव तद् वस्तु विद्यते येन मनुष्यस्य पशोः च भेदः कर्तुं शक्यते । विधया एव मनुष्याः स्वकीयं कर्तव्यं जानन्ति । विद्या विहीनः नरः पश तुल्यो भवति । उक्तं च सत्यमेव –

“विद्या विहीनः पशुः”

अस्मिन् संसारे विद्यैव सुखस्य मूलम् अस्ति। विद्या मानवाय नम्रता ददाति । विनयेन मानवः योग्यता प्राप्नोति । योग्यतया धन प्राप्नोति । धनेन धर्म भवति । धर्मेण च सुखं प्राप्नोति । उक्तमपि –

विद्या ददाति विनयं विनयाद याति पात्रताम् ।

पात्रत्वात् धनमाप्नोति धनाद् थर्मः ततः सुखम् ॥

अस्मिन् संसारे ये महापुरुषाः अभवन् ते शैशचे महता परिश्रमेण विद्याम् । अधीतवन्तः । बालाः बाल्ये अवश्यं विशेष रूपेण च विद्यामध्यस्यन्तु। इदं च सदा स्मर्तव्यम् –

काशश्चैव विद्यामधं च चिन्तयेत् ॥

क्षण त्यागे कुतो विद्या, कण त्यागे कुतो धनम् ॥