भारतीय संस्कृतिः | Indian Heritage Essay in Sanskrit

भारतीया संस्कृतिः | Indian Heritage Essay in Sanskrit

सम’ उपसर्ग पूर्वकात् ‘कृ’ धातो क्तिन् प्रत्यये कृते ‘संस्कृति’ शब्दो सम्पद्यते । संस्करणं परिष्करणं चेतसः संस्कृतिः इति उच्यते । संस्कृतिः चेतसः अज्ञानं दरी कृत्य ज्ञान ज्योति प्रकाशयति । भारतीय संस्कृतिः संसारस्य सर्वास • संस्कृतिषु श्रेष्ठाः प्राचीनतमा च अस्ति ।।

भारतीय संस्कृतिः वेदमूला अस्ति। अस्याः आत्मा सत्यम् अस्ति। त्यागः, करुणभावः, दया, सेवा च भारतीय संस्कृतेः विशेषता अस्ति । ‘अहिंसा’ अस्माकं संस्कृते: आदर्शः अस्ति। वर्ण-व्यवस्था, आश्रम व्यवस्था, आध्यात्म-चिन्तनं सहिष्णुता च भारतीय संस्कृतेः प्राणाः सन्ति । भारतीय संस्कृतिः सदैव पर कल्याणम् चिन्तयति न तु आत्म कल्याणे एव केन्द्रित । अतएव उच्यते: –

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।।

सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाक् भवेत् ॥

अस्मांक संस्कृतिः कर्मप्रधाना अस्ति । अस्याम् आनन्दस्य प्राप्त्यै पुरुषार्थस्य महत्त्वम् प्रतिपादितम् । अस्माकं संस्कृतेइयमपि विशेषता यत् एतया मानव जीवनस्य उद्देश्यम् ‘मोक्षः’ इति निर्धारितम् । भारतीय संस्कृतिः ‘सत्यं शिवं सुन्दरं पूजयति ।

विश्व बन्धुत्वस्य भावना भारतीय संस्कृतेः अनिर्वचनीया विशेषता विद्यते । सा न केवल मनुष्येषु अपितु सर्वेषु प्राणिषु पदार्थेषु च एकस्यैव परमात्मनः विभूतिम् पश्यति । अतएव गीतायाम् कृष्णेन उक्तम् –

विद्या विनय सम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ।।

भारतीय संस्कृति एवं भारतीयानां जीवनम् अनुशास्ति । अतएव पुरा अस्माकं देश: “जगद्गुरुः आसीत् ।

Also Read:
Essay on Rain/Rainy Season
Essay on Rakshabandhan
Essay on Sadachar
Essay on Importance of Sanskrit Language
Essay on Satsangati
Essay on Satyamev Jayate
Essay on Shram(Labour)

Leave a Comment