हिमालयो नाम नगाधिराजः | Essay on Himalaya in Sanskrit

हिमालयो नाम नगाधिराजः | Himalaya Mountain Essay in Sanskrit

अयं पर्वतः हिमस्य आलयः (स्थानम् अस्ति अतएव ‘हिमालयः’ कथ्यते । अस्य अत्युच्चानि शिखराणि विश्वस्य सर्वानपि पर्वतान् जयन्ति अतः अयं नगः नगाधिराजः इति कथ्यते । अयं पर्वतराज: भारतवर्षस्य उत्तरस्यां दिशि शोभते । हिमालयः भारतस्य प्रहरी इव शत्रुभ्यः सततं रक्षति । हिमालयात् भारतदेशस्य समृद्धिः भवति । मेघाः हिमालयस्य उच्चैः शिखरैः पद्यन्तः परावन्ति, अस्माकं देशस्य भूमौ च वर्षन्ति । एवम् अयं पर्वतराज: भारतं महद् उपकरोति ।।

| हिमालयस्य गुहासु योगिनः, तपस्विनः च तपस्यन्तः शान्ति मुक्ति च प्राप्नुवन्ति ।अस्य उच्चतमानि शिखराणि सदैव मिमण्डितानि तिष्ठन्ति । अस्मात् पर्वतात् बह्वः नद्यः निस्सरन्ति यथा—गंगा, यमुना, ब्रह्मपुत्रे, सिन्धु, विपाशाः आदयः । इमाः नद्यः अस्माकं देशस्य विशालं भूभागं सिञ्चन्ति शस्य श्यामलम् कुर्वन्ति च। अस्य हिमालयस्य सर्वोन्नतं शिखरं “एवरेस्ट” इति अभिधीयते । अस्य हिमालयस्य अधित्यकासु बद्रीनाथ-केदारनाथ प्रभृतीनि अस्माकं प्रसिद्धानि तीर्थस्थानानि सन्ति । अत्र अनेकानि महावनानि सन्ति यंत्र बहु विधाः वनस्पतयः

औषधयः उपलभ्यन्ते । अस्य उपत्यकायां स्थितः कश्मीर: ततश्च पूर्वस्याम् दिशि स्थिता कुल्लू-घाटी स्वकीयैः सौन्दर्यैः केषाम् मनः न हरति ।।

अस्यैव नगाधिराजस्य कन्दरासु तपस्याम् कुर्वन्तः अनेके महात्मानः परां सिद्धिम् प्राप्य मोक्षम् प्राप्तवन्तः । अस्यैव पर्वतस्य कैलाश शिखरे भगवतः शिवस्य स्थानम् अस्ति।

अतः अस्माकम् उपकारक, रक्षक, पालक, पोषकः, वर्धकः, अयम् पर्वतराजः अस्माभिः सर्वदा रक्षणीयः ।।

Also Read:
Essay on Ahimsa
Essay on Anushaasan
Essay on Bharatvarsh
Essay on Diwali/Deepawali
Essay on Deshbhakti
Essay on Durga Puja
Essay on Environment

Leave a Comment