“गीता सुगीता कर्तव्या” अथवा मम प्रियं पुस्तकम् | My Favorite Book Essay in Sanskrit

अस्मिन् संसारे पुस्तकानि एवं मनुष्यं शिक्षितं यशस्विनं उम्मतं च कुर्वन्ति । अतः जीवने पुस्तकानाम् अतीव महत्त्वं वर्तते । मया अनेकानि पुस्तकानि पठितानि सन्ति । सर्वाणि एव सुपुस्तकानि मम मनो हरन्ति । परं तेषु सर्वेषु श्रीमद्भगवद्गीता मम प्रियं पुस्तकम् ।। । गीता महाभारतस्य एकः भागः अस्ति । यदा युद्धसमये अर्जुन: मोहग्रस्तः युद्धविरत: च अभवत् तदा श्री कृष्णः तं यद् उपदिशत् तस्य भावस्य संकलनम् एवं गीता शास्त्रे विद्यते । उक्तं हि-

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।

पार्थों वत्सः सुधी भक्ता दुग्धं गीतामृतं महत् ।।

न केवल भारतीय साहित्ये अपितु विश्व साहित्ये अपि गीता सादृशी अन्या कृतिः नास्ति। गीतायाः महत्त्वं कोऽपि वर्णयितुं न शक्नोति । एतस्मिन ग्रन्थे वे वेदनां सारः विद्यते । गीतायाः विषयः अति गम्भीरः अस्ति । अस्य ग्रन्थस्य भाषा सरला, सुबोधा, मनोहरा च अस्ति। गीतायाः अपरं नाम ‘कर्मयोगशास्त्रम् अस्ति । गीता अस्मान् सर्वेषु अपि लौकिक कर्मसु कौशलं शिक्षयति । अतएव इत्युच्यते विद्वत् जनैः –

गीता सुगीता कर्तव्या किमन्यैः शास्त्र विस्तरैः ।।

या स्वयं पद्मनाभस्य मुखपद्माद्विनिर्गता ।।

गीता उपदिशिति, यत् मरणम् वरम् परन्तु अपकीर्तिमान भूत्वा जीवनम न वरम् अतः मनुष्यैः सर्वकालेषु स्वकीर्तिः रक्षणीया |

“संभावितस्य चाकीर्ति मैरणादतिरिच्यते”

गीता उपदिशति यत् धर्मः न कदापि त्याज्य: –

“स्वधर्मे निधनं श्रेयः, परधर्मो भयावा”

गीता उपदिशति यत् मनुष्यस्य पुनर्जन्म अपरिहार्यः –

“जातस्य हि धुवो मृत्युः ध्रुवं जन्म मृतस्य च”

गीता उपदिशति यत् आत्मा अजर अमर –

न जायते प्रियते वा कदाचित् नायम् भूत्वा, भविता या न भूयः ।”

एतैः उपदेशैः एव श्रीमद्भगवद्गीता मह्यम् अतीव रोचते।