आदर्श: नागरिक | Ideal Citizen Essay in Sanskrit

आदर्श: नागरिक | Ideal Citizen Essay in Sanskrit

कस्यापि राष्ट्रस्य सदस्यः तस्मात् राष्ट्रात कतिचन अधिकारान प्राप्नोति तथा च तस्य राष्ट्रस्य कानिचत् नियमानि पालयति । सः तस्य राष्ट्रस्य नागरिक भवति । किन्तु सर्वेऽपि नागरिका: आदर्श नागरिकाः न भवन्ति । आदर्श नागरिके किञ्चित् अधिकम् अपेक्षितम् वर्तते ।

आदर्शः नागरिकः स्वकीयम् उत्तरदायित्वं समीचीनतया जानाति, सः स्व । अधिकाराणाम् प्रयोगम् स्व कर्तव्यानाम् च पालनम् सर्वदा सम्यग् रूपेण विदधाति ।। आदर्श नागरिके कतिचन गुणाः अपेक्षिताः भवन्ति । तस्य सर्वम् अपि कार्य राष्ट्रहिताय एव भवेत् राष्ट्रस्य हिताहितं तस्य स्वकीयम् हिताहितम् स्यात्।। राष्ट्रीयतायाः भावना तस्मिन् मूर्तरूपेण सर्वदा जागृता तिष्ठेत् । । | आदर्श नागरिकः शरीरेण स्वस्थः भवेत, अस्वस्थोजनः न स्व कल्याण न परकल्याणं कर्तुम् समर्थः भवति । सः सुशिक्षितः अपि स्यात्, शिक्षायाः प्रधानम् उद्देश्यं इदमेव यत् आदर्शः नागरिक: स्वस्य, समाजस्य, राष्ट्रस्य, विश्वस्य च कल्याणं यथा शक्यम् साधयेत् । आदर्श नागरिकः न शक्तिसम्पन्नः, विवेक युक्तः, विचारवान्, चरित्रवान्, उदारहृदय, संयमी, जन सेवा परायणः परोपकारी सत्यनिष्ठ: उत्तरदायित्व युक्तश्च भवेत् ।।

एभिः गुणैः सम्पन्नाः नागरिकाः एव राष्ट्रस्य विभूतयः भवन्ति । तेषाम आधारे एव राष्ट्रस्य जीवनम् गौरवञ्च सुरक्षितम् भवन्ति । तेषाम् आधारे एवं लोकतन्त्रम् सफलम् भवति । लोकतन्त्रस्य रक्षकाः आदर्श नागरिकाः एव । लोकतन्त्रस्य महत्ता एवं वर्णिता: –

“सर्वेषाम् राज्य तन्त्राणां लोकतन्त्रम् विशिष्यते ।”

Also Read:
Essay on Himalaya Mountain
Essay on Ideal Citizen
Essay on Indian Heritage
Essay on Janmbhumi
Essay on Kalidas
Essay on Kalidas
Essay on Greediness

Leave a Comment