जननी जन्मभूमिश्च स्वर्गादपि गरीयसी | Janmbhumi Essay in Sanskrit

“मातृदेवो भव”

उपनिषदकारेण सत्यमेव आदिष्टम् यतो हि पुत्रस्य उपरि मातुः यादृशं वात्सल्यं भवति न तादृशं वापि दृश्यते पृथिव्याम् । माता पुत्रस्य कृते सर्वस्वमपि त्यतं शक्नोति । सा स्वकीयानि कष्टानि विस्मृत्य पुत्रस्य सुख-चिन्तायामेव निमग्ना विराजते । पुनः जनन्याः मंगलमये उत्सङ्गे यम् सुखम् अनुभवति तत् स्वगपिया अपि अधिकतरम् वर्तते । अतः पुत्रः बाल्यकालादेव मातरमेव सर्वतः अधिकम मन्यते । यावज्जीवनम् अनेकानि असहनीयानि कष्टानि सहित्वा जननी पुत्रं पालयति अतः माता सर्वथा वन्दनीया, पूजनीया, अर्चनीयाश्च।

मनुस्मृतौ मनुना अपि कथितम् –

यं माता पितरौ क्लेशं सहेते सम्भवे नृणम्।

न तस्य निष्कृतिः शक्या कर्तुं वर्ष शतैरपि ।।

जनस्य जन्मनः भूमिः एव ‘जन्मभूमिः’ इति कथ्यते । मनुष्य: यस्मिन् भ भागे जन्म लभते सः एव भूभागः तस्य जन्मभूमिः भवति । विदेशे स्थित भारतीय जन्मभूमिम् सदा स्मरति, तद्दर्शनस्य अभिलाषा तस्य हृदये सदैव वर्तते । भारतवर्षम् अस्माकम् देशः । इदम् अस्माकम् जन्मभूमिः । भारत मातुः सुविस्तीर्ण उत्सङ्गे वयम् सर्वेऽपि तत्पुत्राः भ्रातरः इव प्रेम्णा क्रीड़न्तः खादन्तः पिबन्तः, विचरन्तः, उत्तरोत्तरम् वर्धमाना, पुष्टाः भवन्ति । फलतः जन्मभूमिः स्वाभाविक रूपेण प्रियत्वात् स्वर्गात् अपि गरीयसी वर्तते । अतः रामेणापि लक्ष्मण प्रति उक्तमः –

अपि स्वर्णमयी लंका, न मे लक्ष्मणः रोचते।

जननी जन्म भूमिश्च स्वर्गादपि गरीयसी ।।।

अतः अस्माभिः सदैव मातृभक्तैः स्वदेशभक्तैश्च भाव्यम् ।