अस्माकम् ग्राम: | My Village Essay in Sanskrit

अस्माकम् ग्राम: | My Village Essay in Sanskrit

भारतवर्षः कृषि प्रधान देशः। कृषि-व्यापारः ग्रामेषु भवति । कृषकाः झामवासिनः । अतः ग्रामाणाम् माहात्म्यं महत्त्वं च सर्वदा अभिगीयते विद्वभिः । ग्रामेषु यदि सत् शिक्षायाः अभावः न स्यात् तदा सरलाः शिष्टा, मिष्टाः श्रमशीला, परोपकारिणः, सहानुभूतिपराः, आचार शीलाः, वाग्वैचित्र्य रहिताः ग्रामवासिनः देवतुल्याः एव ।।

मंगलपुर नामकः अस्माकम् ग्राम: मयराष्ट्रात् नातिदूरे एवं वर्तते । अस्माकम् ग्रामे चत्वारः जनमागः, अष्ट प्रतोन्यः अष्टाधिकशत भवनानि सन्ति। पञ्चशत संख्याकाः जन संख्या अस्ति अस्माकम् ग्रामस्य । अत्र एकस्यां अतोल्यां ब्राह्मणाधिवासः, अपरस्यां व वणिजां निवासः, अन्यस्याम् क्षत्रियाः निवसन्ति अपरे। ऽपि सुख-शान्ति पूर्वकम् भ्रातृत्व भावनया वसन्ति च ।।

अस्माकम् ग्रामस्य नैसर्गिकी शोभा कस्य मन: न हरति । कुत्रचित् ग्रामबालाः घटैः पादपान् सिंचन्त्यः शोभन्ते । कुत्रचित् कृषीवलाक्षेत्रं कर्षन्तः अवलोक्यन्ते । कुत्रचित् वृद्धाः निज भवन-प्रकोष्ठ चत्वरे तिष्ठन्तः गृहरक्षां कुर्वन्तः तमालपत्रं बहुशः खादयन्ति गोष्ठी सुखं अनुभवन्ति च । इमानि मृत्तिका निर्मितानि गृहाणि, गोमय लिप्तानि चत्वराणि, कपिलाः श्यामाश्च धेनवः क्रीडन्तः शिशवः, गृहकार्य सम्पादयन्त्यश्च युवत्यः विलोक्यन्ते ।

वयं ग्रामीणाः सरलेन येन केन स्वल्पेनैव वस्तुजातेन जीवन यापयामः ।। कृषिम् कुर्मः । धारोष्णम् दुग्धम् पिबामः । तक्रमपि स्वादयामः । अस्माकम् ग्रामस्य मध्ये भगवतः आशुतोषस्य महादेवस्य मन्दिरम् अस्ति । अत्र प्रतिवर्ष फाल्गुणमासे शिवरात्रौ मेलापकः भवति । मन्दिरस्यैव प्रदेशे प्रतिचन्द्रवासरं एक हट्टं भवति यत्र जनाः दूर दूर लघु ग्रामात् आगत्य वस्तु जातानि क्रीणन्ति ।

सर्वमेव अस्माकम् ग्रामस्य दृश्यं सरलं मनोज्ञञ्च ।

Also Read:
Essay on Kalidas
Essay on Kalidas
Essay on Greediness
Essay on Mahabharata
Essay on Mahatma Gandhi
Essay on Lord Mahavir
Essay on Mother

Leave a Comment