Sanskrit Essay on Plantation
भारतस्य एका भयावहा समस्या अस्ति ‘प्रदूषणम्’। प्रदूषणनिवारणाय वृक्षारोपणम् अत्यावश्यकमस्ति। प्राचीन काले, पुराणेषु अपि वृक्षाणां महत्त्वं प्रतिपादितम्। यः पञ्चानाम् आम्रवृक्षाणाम् आरोपणं करोति स कदापि नरकं न गच्छति इति कथ्यते। पुराणे एतदेव कथितं ‘पंचाम्रवापी नरकं न याति इति। वृक्षाः अस्माकं कृते किं करोति एतत् अस्मिन् सुभाषिते कथितम्-
धत्ते धारं कुसुमपत्रफलावलीनां धर्मव्यथां वहति शीतभवां रुजं च।
यो सर्वमर्पयति चान्यसुखस्य हेतोः, तस्मै वदान्यगुरवे तरवे नमोऽस्तु।
वृक्षाः स्वयं कुसुमपत्रफलानां भारं रहत, तथा सर्वं अन्येभ्यः गच्छन्ति। स्वयम् आतपे तिष्ठन्ति, अन्यस्य छायां कुवन्ति। वृक्षाणां मूलं, वल्कलं, पत्रं, पुष्पं, फलं सर्वमेव परेभ्यः अस्ति।
एतादृशाः परोपकारिण: वृक्षा: जनेभ्य: किमपि न वाञ्छन्ति। किन्तु आधुनिके युगे जनाः स्वार्थिनः अभवत्। स्वसुखाय, गृहनिर्माणाय ते वृक्षान् छिन्दन्ति। ते किं न जानन्ति, यत् वृक्षाः सृष्टे: आधाराः सन्ति। वृक्षाभावे सृष्टि: असंभवा खलु।
वृक्षाः जनानां शरीरस्वास्थ्याय अपि सन्ति। ते ‘कार्बन डायऑक्साइड’ वायुं गृहणन्ति, ऑक्सीजन वायुं च विसृजन्ति। नूनम् एषां जीवनं समस्त प्राणिभ्यः उपयोगिन:मस्ति। येभ्यः अर्थिनः कदापि निराशां न यान्ति। यात्रां कुर्वन्त: नरा: यदा श्रान्ताः भवन्ति, तदा मार्गे स्थितानां वृक्षाणां छायायां विश्रामं कुर्वन्ति।
एवं परोपकारिणां वृक्षाणां छेदनं कदापि न कर्तव्यम्। प्राचीनकाले तु वृक्षभेदनं दण्डनीयः अपराध: मन्यते। अस्माकं संस्कृत्यां वृक्षभेदनं पापं मन्यते।
अत: प्रत्येक नागरिकस्य एतत् कर्त्तव्यं यत् तेन वृक्षारोपणम् अवश्यं कर्तव्यम्। अधुना विद्यालयेषु अपि वृक्षारोपणं क्रियते। शासनः अपि अस्यां दिशायां प्रयासं करोति। अनेके नेतारः वृक्षारोपणं कुर्वन्ति। यदि वृक्षारोपणस्य कार्यं निरन्तरं भवेत्। तहिं प्रदूषण समस्यायाः समाधानं भवेत्।
Also Read:
Essay on Mahabharata
Essay on Mahatma Gandhi
Essay on Lord Mahavir
Essay on Janmbhumi
Essay on Kalidas
Essay on Kalidas